निर्वाण षटकम्
मनो बुध्यहंकारचित्तानि नाहम् न च श्रोत्र जिह्वे न च घ्राण नेत्रे
न च व्योम भूमिर न तेजो न वायुः चिदानन्द रूपः शिवोहम् शिवोहम् ॥
न च प्राण संज्ञो न वै पञ्चवायुः न वा सप्तधातुर् न वा पञ्चकोशः
न वाक्पाणिपादौ न चोपस्थपायू चिदानन्द रूपः शिवोहम् शिवोहम् ॥
न मे द्वेष रागौ न मे लोभ मोहौ मदो नैव मे नैव मात्सर्य भावः
न धर्मो न चार्थो न कामो ना मोक्षः चिदानन्द रूपः शिवोहम् शिवोहम् ॥
न पुण्यं न पापं न सौख्यं न दुःखम् न मंत्रो न तीर्थं न वेदाः न यज्ञाः
अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्द रूपः शिवोहम् शिवोहम् ॥
न मृत्युर् न शंका न मे जातिभेदः पिता नैव मे नैव माता न जन्म
न बन्धुर् न मित्रं गुरुर्नैव शिष्यः चिदानन्द रूपः शिवोहम् शिवोहम् ॥
अहं निर्विकल्पो निराकार रूपो विभुत्वाच्च सर्वत्र सर्वेंद्रियाणाम्
न चासंगतं नैव मुक्तिर् न मेयः चिदानन्द रूपः शिवोहम् शिवोहम् ॥

टिप्पणियाँ