श्री दत्तात्रेयवज्रकवचम्
॥श्रीहरि:॥ दत्तात्रयवज्रकवच ॐ ॥श्रीदत्तात्रेयवज्रकवचम्॥ श्रीगणेशाय नम:। श्रीदत्तात्रेयाय नम:। ऋषय ऊचु:। कथं संकल्पसिद्धि: स्याद्वेदव्यास कलौ युगे। धर्मार्थकाममोक्षणां साधनं किमुदाह्रतम्॥१॥ व्यास उवाच। श्रृण्वन्तु ऋषय: सर्वे शीघ्रं संकल्पसाधनम्। सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम्॥२॥ गौरीश्रृङ्गे हिमवत: कल्पवृक्षोपशोभितम्। दीप्ते दिव्यमहारत्नहेममण्डपमध्यगम्॥३॥ रत्नसिंहासनासीनं प्रसन्नं परमेश्वरम्। मन्दस्मितमुखाम्भोजं शङ्करं प्राह पार्वती॥४॥ श्रीदेव्युवाच देवदेव महादेव लोकशङ्कर शङ्कर। मन्त्रजालानि सर्वाणि यन्त्रजालानि कृत्स्नश:॥५॥ तन्त्रजालान्यनेकानि मया त्वत्त: श्रुतानि वै। इदानीं द्रष्टुमिच्छामि विशेषेण महीतलम्॥६॥ इत्युदीरितमाकर्ण्य पार्वत्या परमेश्वर:। करेणामृज्य संतोषात्पार्वतीं प्रत्यभाषत॥७॥ मयेदानीं त्वया सार्धं वृषमारुह्य गम्यते। इत्युक्त्वा वृषमारुह्य पार्वत्या सह शङ्कर:॥८॥ ययौ भूमण्डलं द्रष्टुं गौर्याश्चित्राणि दर्शयन्। क्वचिद् विन्ध्याचलप्रान्ते महारण्ये सुदुर्गमे॥९॥ तत्र व्याहन्तुमायान्तं भिल्लं परशुधारिणम्। वध्यमानं महाव्याघ्रं नखदंष्ट्र...