मनसादेवी स्तोत्रम्
मनसादेवी स्तोत्रम् ।। अथ ध्यानः ।। चारु-चम्पक-वर्णाभां, सर्वांग-सु-मनोहराम् ।नागेन्द्र-वाहिनीं देवीं, सर्व-विद्या-विशारदाम् ।। ।। मूल-स्तोत्र ।। श्रीनारायण उवाच ।नमः सिद्धि-स्वरुपायै, वरदायै नमो नमः ।नमः कश्यप-कन्यायै, शंकरायै नमो नमः ।। बालानां रक्षण-कर्त्र्यै, नाग-देव्यै नमो नमः ।नमः आस्तीक-मात्रे ते, जरत्-कार्व्यै नमो नमः ।। तपस्विन्यै च योगिन्यै, नाग-स्वस्रे नमो नमः ।साध्व्यै तपस्या-रुपायै, शम्भु-शिष्ये च ते नमः ।। ।। फल-श्रुति ।। इति ते कथितं लक्ष्मि ! मनसाया स्तवं महत् ।यः पठति नित्यमिदं, श्रावयेद् वापि भक्तितः ।। न तस्य सर्प-भीतिर्वै, विषोऽप्यमृतं भवति ।वंशजानां नाग-भयं, नास्ति श्रवण-मात्रतः ।। ।।अथ द्वितीय मनसादेवी स्तोत्रम् ।। देवी त्वां स्तोतुमिच्छामि सा विनां प्रवरा परम् ।परात्परां च परमां नहि स्तोतुं क्षयोsधुना ।। १ ।। स्तोत्राणां लक्षणं वेदे स्वभावाव्यानत: परम् ।न क्षम: प्रकृति वक्तुं गुणानां तब सुव्रते ।। २ ।। शुद्रसत्वस्वरुपा त्वम् कोपहिंसाविवर्जिता ।न च सप्तो मुनिस्तेन त्यक्तया च त्वया यत: ।। ३ ।। त्वं मया पूजिता साध्वी जननी च यथाsदिति: ।दयारुपा च भगिनी क्षमारु...