नमस्ते शारदे देवि
सरस्वती स्तोत्रं शारदा स्तोत्रं नमस्ते शारदे देवि काश्मीर-पुर-वासिनी । त्वामहं प्रार्थये नित्यं विद्या-दानं च देहि मे ॥१॥ या श्रद्धा धारणा मेधा वाग्-देवी विधि-वल्लाभा । भक्त-जिह्वाग्र-सदना शमादि-गुण-दायिनी ॥२ ॥ नमामि यामिनीं नाथ-लेखालन्कृत-कुन्तलां । भवानीं भव-सन्ताप निर्वापण सुधा-नदीम् ॥३ ॥ भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः । वेद-वेदाङ्ग-वेदान्त-विद्या-स्थानेभ्य एव च ॥४ ॥ ब्रह्म-स्वरूपा परमा ज्योति-रूपा सनातनी । सर्व-विद्यादि-देवी या तस्यै वाण्यै नमो नमः ॥५ ॥ यया विना जगत्-सर्वं शश्वज्जीवन्-मृतं भवेत् । ज्ञानाधि-देवी या तस्यै सरस्वत्यै नमो नमः ॥६ ॥ या विना जगत्-सर्वं मूकमुन्मत्तवत् सदा । या देवी वागधिष्ठात्री तस्यै वाण्यै नमो नमः ॥ ७॥