सरस्वती स्तोत्रं
शारदा स्तोत्रं
नमस्ते शारदे देवि काश्मीर-पुर-वासिनी ।
त्वामहं प्रार्थये नित्यं विद्या-दानं च देहि मे ॥१॥
या श्रद्धा धारणा मेधा वाग्-देवी विधि-वल्लाभा ।
भक्त-जिह्वाग्र-सदना शमादि-गुण-दायिनी ॥२ ॥
नमामि यामिनीं नाथ-लेखालन्कृत-कुन्तलां ।
भवानीं भव-सन्ताप निर्वापण सुधा-नदीम् ॥३ ॥
भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः ।
वेद-वेदाङ्ग-वेदान्त-विद्या-स्थानेभ्य एव च ॥४ ॥
ब्रह्म-स्वरूपा परमा ज्योति-रूपा सनातनी ।
सर्व-विद्यादि-देवी या तस्यै वाण्यै नमो नमः ॥५ ॥
यया विना जगत्-सर्वं शश्वज्जीवन्-मृतं भवेत् ।
ज्ञानाधि-देवी या तस्यै सरस्वत्यै नमो नमः ॥६ ॥
या विना जगत्-सर्वं मूकमुन्मत्तवत् सदा ।
या देवी वागधिष्ठात्री तस्यै वाण्यै नमो नमः ॥ ७॥
टिप्पणियाँ